९.२८
कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् ।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥
सञ्जीविनीटीका (मल्लिनाथः) कुसुममिति॥ ऋतुरस्य प्राप्त आर्तवम्। ऋतोरण् (अष्टाध्यायी ५.१.१०५ ) इत्यण्। नवं प्रत्यग्रमशोकतरोः केवलं कुसुममेव स्मरदीपनमुद्दीपनं न। किंतु विलासिनां मदयिता मदजनको दयिताश्रवणार्पितः किसलयप्रसवोऽपि पल्लवसंतानोऽपि स्मरदीपनोऽभवत् ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
कुसु मे के मार्त वं
शो रोःस्म दी नम्
किप्र वोऽपिवि लासि नां
यि तायि ताश्र णार्पि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.