९.३०
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः ।
मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ॥
सञ्जीविनीटीका (मल्लिनाथः) सुवदनेति॥ सुवदनावदनासवेन कान्तामुखमद्येन संभृतो जनितः। तत्तस्य दोहदमिति प्रसिद्धिः। तस्यासवस्यानुवादी सदृशो गुणो यस्य तदनुवादिगुणः कुसुमोद्गमः कर्ता मधुलोलुपैरायतपङ्क्तिभिर्दीर्घपङ्क्तिभिर्मधुकरैर्मधुपैः करणैः बकुलं बकुलवृक्षमाकुलमकरोत् ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
सु ना ना संभृ
स्तनु वादिगु णःकुसु मोद्ग मः
धु रै रोन्मधु लोलु पै
र्बकु माकु माङ्क्ति भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.