९.२७
नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियभर्थिनः ।
अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपतत्रिणः ॥
सञ्जीविनीटीका (मल्लिनाथः) नयेति॥ नयो नीतिरेव गुणः। तेन। अथवा, -नयेन गुणैः शौर्यादिभिश्चोपगचिताम्। सतामुपकारः फलं यस्यास्तां सदुपकारफलां भूपतेर्दशरथस्य श्रियमर्थिन इव। मधुना वसन्तेन संभृतां सम्यक्पुष्टां सरसः संबन्धिनीं कमलिनीं पद्मिनीमलिनीरपतत्रिणः । अलयो मृङ्गान्। नीरपतत्रिणो जलपतत्रिणो हंसादयस्च। अभिययुः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
गु णोचि तामि भू तेः
दु का लांश्रिर्थि नः
भि युः सोधु संभृ तां
लि नीलि नीत्रि णः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.