९.२५
जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
दिनमुखानि रविर्हिमनिग्रहैर्विमलयन्मलयं नगमत्यजत् ॥
सञ्जीविनीटीका (मल्लिनाथः) जिगमिषुरिति॥ धनदाध्युषितां कुबेराधिष्ठितां दिशं जिगमिषुर्गन्तुमिच्छुः। रथयुजा सारथिनारुणेन परिवर्तितवाहनो निवर्तिताश्वो रविः। हिमस्य निग्रहैर्निराकरणैर्दिनमुखानि प्रभातानि विमलयन्विशदयन् मलयं नगं मलयाचलमत्यजत्। दक्षिणां दिशमत्याक्षीदित्यर्थः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
जिमि षुर्ध दाध्युषि तांदि शं
यु जारिर्ति वा नः
दिमु खानि विर्हि निग्र है
र्विन्म यंत्य जत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.