९.२४
अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् ।
यमकुबेरजसेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ यमकुबेरजलेश्वरवज्रिणां धर्मराजधनदवरुणामरेन्द्राणां समा धूर्भाो यस्य स समधुरः। माध्यस्थवितरणसंनियमनैश्वर्यैस्तुल्यकक्ष इत्यर्थः। ऋक्पूरब्धूः- (अष्टाध्यायी ५.४.७४ ) इत्यादिना समासान्तोऽच्प्रत्ययः। तं समधुरम्। अञ्चितविक्रमं पूजितपराक्रममेकनराधिपं तं दशरथं सेवितुमिव। मधुर्वसन्तः। अथ पुष्परसे मधुः। दैत्ये चैत्रे वसन्ते च मधुः इति विश्वः। नवैः कुसुमैरुपलक्षितः सन्, समाववृत्ते समागतः। रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम् इति वचनात्पुष्पसमेतो राजानं सेवितुमागत इत्यर्थः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
मावृ तेकुसु मैर्न वै
स्तमि सेवितु मे राधि पम्
कु बे सेश्वज्रि णां
धु रंधुञ्चि विक्र मम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.