९.१
पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः ॥
सञ्जीविनीटीका (मल्लिनाथः) पितुरिति॥ समाधिना संयमेन जितेन्द्रियः। समाधिर्नियमे ध्याने इति कोशः। यमवतां संयमिनामवतां रक्षतां राज्ञां च धुर्यग्रे स्थितो महारथः। एको दश सहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते॥ इति। दशरथः पितुरनन्तरमुत्तरकोसलाञ्जनपदान्समधिगम्य प्रशशास। अत्र मनुः(७।१४४)-क्षत्रियस्य परो धर्मः प्रजानां परिपालनम् इति। द्रुतविलम्बितमेतद्वृत्तम्। तल्लक्षणम्-द्रुतविलम्बितमाह नभौ भरौ इति ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
पितुन्त मुत्त को ला
न्सधिम्य माधिजि तेन्द्रि यः
थःप्र शा हा थो
ता तांधु रिस्थि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.