९.१६
तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता ।
नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ॥
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ पत्यौ व्रतं नियमो यस्याः सा पतिव्रता सकमला कमलहस्ता देवता लक्ष्मीरर्थिषु विषयेऽलाघवं लघुत्वरहितम्। अपराङ्मुखमित्यर्थः। ककुत्स्थकुलोद्भवं तं दशरथमात्मभवं पुरुषं विष्णुं चापहाय त्यक्त्वा। अन्यं कं नृपतिमसेवत? कमपि नासेवतेत्यर्थः। विष्णाविव विष्णुतुल्ये तस्मिन्नपि श्रीः स्थिराभूदित्यर्थः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
हा कुत्स्थकु लोद्भ वं
पुरु मात्म वं तिव्र ता
नृतिन्य से दे ता
ला लार्थिषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.