९.१५
उपगतोऽपि च मण्डलनाभितामनुभितामनुदितान्यसितातपवारणः ।
श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः ॥
सञ्जीविनीटीका (मल्लिनाथः) उपगत इति॥ अनुदित मनुच्छ्रितमन्यत्स्वच्छत्रातिरिक्तं सितातपवारणं श्वेतच्छत्रं यस्य सः। अनलसोमयोरग्निचन्द्रयोः समे द्युती तेजः कान्ती यस्य स तथोक्तः। श्रियं लक्ष्मीं रन्ध्रेऽन्यायालस्यादिरूपे छले चलां चञ्चलामवेक्ष्यावलोक्य। श्रीर्हि केनचिन्मिषेण पुमांसं परिहरति। स दशरथो मण्डलस्य नाभितां द्वादशराजमण्डलस्य प्रधानमहीपतित्वमुपगतोऽपि। चक्रवर्ती सन्नपीत्यर्थः। अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका। रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः॥ आद्यक्षत्रियभेदे तु मतो मुख्यमहीपतौ। इति केशवः। अनलसोऽप्रमत्तोऽभूत्। अजितमस्ति नृपास्पदम् इति पाठान्तरेऽजितं नृपास्पदमस्तीति बुद्ध्यानलसोऽप्रमत्तोऽभूत्। विजितनिखिलजेतव्योऽपि पुनर्जेतव्यान्तरवानिव जागरूक एवावतिष्टतेत्यर्थथः। द्वादशराजमण्डलं तु कामन्दकेनोक्तम्-अरेर्मित्रमरेर्मित्रं मित्रमित्रमतः परम्। तथारिमित्रमित्रं च विजिगीषोः पुरःसराः॥ पर्ष्णिग्रहास्ततः पश्चादाक्रन्दस्तदनन्तरम्। आसारावनयोश्चैव विजिगीषोस्तु पृष्टतःअरेश्च विजिगीषोश्च मध्यमोभूम्यनन्तरः। अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे॥ मण्डलाद्बहिरेषामुदासीनो बलाधिकः। अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः॥ इति॥ अरिमित्रादयः पञ्च विजिगीषोः पुरःसराः। पार्ष्णिग्राहाक्रन्दपार्ष्णिग्राहासाराश्च पृष्ठतः॥ इति पृष्ठतश्चत्वारः। मध्यमोदासीनौ द्वौ विजिगीषुरेक इत्येवं द्वादश राजमण्डलम्। तत्रोदासीनमध्यमोत्तरश्चक्रवर्ती। दशरथश्चैतादृगिति तात्पर्यार्थः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६
तोऽपिण्ड नाभि ता
नुभि तानुदि तान्यसि ता वा णः
श्रि वेक्ष्यन्ध्र ला भू
सोऽन सोद्यु तिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.