९.१४
निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् ।
समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम् ॥
सञ्जीविनीटीका (मल्लिनाथः) निववृत इति॥ स दशरथः सचिवैः संप्रयोजितैः कारिता बालसुतानामञ्जलयो यैस्तान्। स्वयमसंमुखागतानित्यर्थः। अनलकान्हतभर्तृकतयालकसंस्कारशून्यान्। सपत्नपरिग्रहाञ्छत्रुपत्नीः। पत्नीपरिजनादनमूलशापाः परिग्रहाः इत्यमरः। समनुकम्प्यानुगृह्य। अलकानवमामलकानगरादन्यूनां पुरीमयोध्यां प्रति महार्णवानां रोधसः पर्यन्तान्निववृते। शरणागतवत्सल इति भावः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
निवृ ते हार्ण रो सः
चि कारि बासु ताञ्ज लीन्
नुम्प्यत्न रिग्र हा
का का मांपु रीम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.