९.१२
शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः ।
स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥
सञ्जीविनीटीका (मल्लिनाथः) शमितेति॥ पुरंदर इन्द्रः शतकोटिना शतास्त्रिणा कुलिशेन वज्रेण शिखरिणां पर्वतानां शमितपक्षबलो विनाशितपक्षसारः। नवतामरसाननो नवपङ्कजाननः। पङ्केरुहं तामरसम् इत्यमरः (अमरकोशः १.१०.४१ ) । स दशरथः शरवृष्टिमुचा स्वनवता धनुषा द्विषां शमितो नाशितः पक्षः सहायो बलं च येन स तथोक्तः। पक्षः सहायेऽपि इत्यमरः (अमरकोशः १.१०.४१ )
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
मिक्ष लः कोटि ना
शिरि णांकुलि शेपु रं रः
वृष्टिमु चानु षाद्वि षां
स्व ता ता सा नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.