९.११
अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः ।
विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः ॥
सञ्जीविनीटीका (मल्लिनाथः) अवनिमिति॥ वरूथिना गुप्तिमता। वरूथो रथगुप्तिर्या तिरोधत्ते रथस्थितिम् इति सज्जनः। एकरथेनाद्वितीयरथेन। अवनिं जितवतो धनुर्भृतो नरवाहनसंपदः कुबेरतुल्यश्रीकस्य तस्य दशरथस्य घनरवा मेघसमघोषा अर्णवा विजयदुन्दुभितां किल ययुः। अर्णवान्तविजयीत्यर्थः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
नि मे थे रूथि ना
जि तःकिस्य नुर्भृ तः
वि दुन्दुभि तांयुर्ण वा
वा वा सं दः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.