८.९५
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥
सञ्जीविनीटीका (मल्लिनाथः) तीर्थ इति॥ असावजो जह्नुकन्यासरय्वोस्तोयानां जलानां व्यतिकरेण संभेदेन भघवे तीर्थे गङ्गासरयूसंगमे देहत्यागात्सद्य एवामरगणनायां लेख्यं लेखनम्। तयोरेव कृत्यक्तखलर्थाः (अष्टाध्यायी ३.४.७० ) इति भावार्थे ष्यत्प्रत्ययः। आसाद्य प्राप्य। पूर्वस्मादाकारादधिकतरा रुग्यस्यास्तया कान्तया रमण्या संगतः सन्। नन्दनस्येन्द्रोद्यानस्याभ्यन्तरेष्वन्तर्वर्तिषु लीलागारेषु क्रीडाभवनेषु पुनररमत। यथाकथंचित्तीर्थेऽस्मिन्देहत्यागं करोति यः। तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि॥ इति स्कान्दे। मन्दाक्रान्ताच्छन्दः। तल्लक्षणम्-मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद्गुरू चेत् इति॥
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
ती र्थे तोव्यति वेह्नु न्या य्वो
र्दे त्या गा ना लेख्य मा साद्य द्यः
पू र्वा का राधिरु चा सं तः कान्त या सौ
ली ला गा रेष्वपु र्नन्द ना भ्यन्त रेषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.