८.९४
सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।
रोगापसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव ॥
सञ्जीविनीटीका (मल्लिनाथः) सम्यगिति॥ अथ नृपतिरजः सम्यग्विनीतं निसर्गसंस्काराभ्यां विनयवन्तं वर्म हरतीति वर्महरः कवचधारणार्हवयस्कः। वयसि च (अष्टाध्यायी ३.२.१० ) इत्यच्प्रत्ययः। तं कुमारं दशरथं प्रजानां रक्षणविधौ राज्ये विधिवद्विध्यर्हम्। यथाशास्त्रमित्यर्थः। तदर्हम् (अष्टाध्यायी ५.१.११७ ) इति वतिप्रत्ययः। आदिश्य नियुज्य रोगेणोपसृष्टाया व्याप्तायास्तनोः शरीरस्य दुर्वसतिं दुःखावस्थइतिं मुमुक्षुर्जिहासुः सन्। प्रायोपवेशनेऽनशनावस्थाने मतिर्यस्य स बभूव। प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि इति विश्वः। अत्र पुराणवचनम्-समासक्तो भवेद्यस्तु पातकौर्महदादिभिः। दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः। स्वयं देहविनाशस्य काले प्राप्ते महामतिः। आब्रह्माणं वा स्वर्गादिमहाफलजिगीषया। प्रविशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा। एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु। नराणामथ नारीणां सर्ववर्णेषु सर्वदा॥ इति। अनयोर्वसन्ततिलकाच्छन्दः। तल्लक्षणम्-उक्ता वसन्ततिलका तभजा जगौ गः इति ॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
म्यग्वि नीर्म रंकु मा
मा दिश्यक्षवि धौविधित्प्र जा नाम्
रो गा सृष्टनु दुर्व तिंमु मु क्षुः
प्रा यो वे तिर्नृ तिर्ब भू
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.