८.७
सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहरणां वधूमिव ॥
सञ्जीविनीटीका (मल्लिनाथः) सदयमिति॥ सहाभुजः सोऽजोऽचिरोपनतां नवोपगतां मेदिनीं भुवम्। नवं पाणिग्रहणं विवाहो यस्यास्तां नवोढां वधूमिव। सहसा बलात्कारेण चेत्। सहो बलं सहा मार्गः इत्यमरः (अमरकोशः ३.३.२४७ ) । इयं मेदिनीर्वा। उद्वेगं भयं व्रजेदिति हेतोः। सदयं सकृपं बुभुजे भुक्तवान्। भुजोऽनवने (अष्टाध्यायी १.३.६६ ) इत्यात्मनेपदम् ॥
छन्दः गीति []
छन्दोविश्लेषणम्
१०१११२१३
यंबुभु जे हाभु
जः सो द्वेमि यंव्र जेदिति
चि रो तां मेदि
नीं पा णिग्र णां धूमि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.