८.६
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् ।
पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥
सञ्जीविनीटीका (मल्लिनाथः) अधिकमिति॥ द्वयमेव शुभंयुना शुभवता। शुभंयुस्तु शुभान्वितः इत्यमरः (अमरकोशः ३.१.५० ) अहंशुभमोर्युस् (अष्टाध्यायी ५.२.१४० ) इति युस्प्रत्ययः। द्वितयेन संगतं युतं सदधिकं शुशुभे। किं केनेत्याह-पदमिति। पैतृकं पितुरागतम्। ऋतष्ठञ् (अष्टाध्यायी ४.३.७८ ) इति ठञ्प्रत्ययः। ऋद्धं समृद्धं पदं राज्यमजेन अस्याजस्य नवं यौवनं विनयेनेन्द्रियजयेन च। विजयो हीन्द्रियजयस्तद्युक्तः शास्त्रमर्हति इति कामभ्दकः। राज्यस्थोऽपि प्राकृतवन्न दृप्तोऽभूदित्यर्थः ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
धि कंशुशु भेशु भंयु ना
द्वि येद्व मे सं तम्
मृद्ध जे पैतृ कं
वि ये नास्य वं यौ नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.