८.८
अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥
सञ्जीविनीटीका (मल्लिनाथः) अहमिति॥ प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जनः। अथवा, -प्रकृतिष्वित्यस्याहमित्यनेनान्वयः। व्यवधानं तु सह्यम्। सर्वोऽपि जनः प्रकृकतिष्वहमेव महीपतेर्मतो महीपतिना मन्यमानः। मतिबुद्धिपूजार्थेभ्यश्च (अष्टाध्यायी ३.२.१८८ ) इति वर्तमाने क्तः, क्तस्य च वर्तमाने (अष्टाध्यायी २.३.६७ ) इति षष्ठी। इत्यचिन्तयदमन्यत। उदधेर्निम्रगाशतेष्विवास्य नृपस्य कर्तुः। कर्तृकर्मणोः कृति (अष्टाध्यायी २.३.६५ ) इति कर्तरि षष्ठी। क्वचिदपि जनविषये विमाननाऽवगणना तिरस्कारो नाभवत्, यतो न कंचिदवमन्यतेऽतः सर्वोऽप्यहमेवास्य मत इत्यमन्यतेत्यर्थः ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
मे तो ही ते
रिति र्वःप्रकृ तिष्व चिन्त यत्
धेरि निम्न गा ते
ष्व न्नास्यवि मा नाक्व चित्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.