८.४९
ध्रुवमस्मि शठः शुचिस्मिते! विदितः कैतववत्सलस्तव ।
परलोकमसंनिवृत्तये यदनापृच्छ्य गतासि मामितः ॥
सञ्जीविनीटीका (मल्लिनाथः) ध्रुवमिति॥ हे शउचिस्मिते धवलहसिते! शठो गूढविप्रियकारी कैतवेन कपटेन वत्सलः कैतवस्निग्धा इति ध्रुवं सत्यं तव विदितस्त्वया विज्ञातोऽस्मि। मतिबुद्धि- (अष्टाध्यायी ३.२.१८८ ) इत्यादिना कर्तरि क्तः। क्तस्य च वर्तमाने (अष्टाध्यायी २.३.६७ ) इति कर्तरि षष्ठी। कुतः? यद्यस्मात्, मामनापृच्छ्यानामन्त्र्य। इतोऽस्माल्लोकात्। परलोकमसंनिवृत्तयेऽपुनरावृत्तये गतासि ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
ध्रुस्मि ठःशु चिस्मि ते
विदि तः कैत्सस्त
लो संनि वृत्त ये
ना पृच्छ्य तासि मामि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.