८.४८
कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि ।
कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे? ॥
सञ्जीविनीटीका (मल्लिनाथः) कृतवतीति॥ मयि चिरं भूरिशोऽपराद्धेऽप्यपराधं कृतवत्यपि। राधेः कर्तरि क्तः। यदा यस्माद्धेतोः। यदेति हेत्वर्थः। स्वरादौ पठ्यते यदेति हेतौ इति गणव्याख्यानात्। अवधीरणामवज्ञां न कृतवत्यसि नाकार्षीः। तत्कथमेकपदे तत्क्षणे। स्यात्तत्क्षण एकपदम्इति विश्वः। निरागसं नितरामनपराधमिमं जनम्। इमम्इति स्वात्मनिर्देशः। मामित्यर्थः। आभाष्यं संभाष्यं न मन्यसे न चिन्तयसि? ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
कृत्यसि ना धी णा
रा द्धेऽपि दाचि रंयि
मे देनि रा सं
मा भाष्यमि मंन्य से
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.