८.३९
उभयोरपि पार्श्ववर्तिनां तुमुलेनार्तिरवेण विजिताः ।
विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥
सञ्जीविनीटीका (मल्लिनाथः) उभयोरिति॥ उभयोर्दम्पत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनार्तरवेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः सरःस्थिता विहगा हंसादयोऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव चुक्रुशुः क्रोशन्ति स्म ॥
छन्दः गीति []
छन्दोविश्लेषणम्
१०१११२१३
योपि पार्श्वर्ति
नांतुमु ले नार्ति वेविजि ताःवि
गाः ला रा
याः दुः खात्र चुक्रु शुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.