८.३८
वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥
सञ्जीविनीटीका (मल्लिनाथः) वपुषेति॥ करणैरिन्द्रियैरुज्झितेन मुक्तेन। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि इत्यमरः (अमरकोशः ३.३.६१ ) । वपुषा निपतन्ती सेन्दुमती पतिमजमप्यपातयत् पातयति स्म। तथा हि-निषिच्यत इति निषेकः। तैलस्य निषेकस्तैलनिषेकः। क्षरत्तैलमित्यर्थः। तस्य बिन्दुना सह दीपार्चिर्दीपज्वाला मेदिनीं भुवमुपैति ननूपैत्येव। ननुअत्रावधारणे। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु इत्यमरः (अमरकोशः ३.३.६१ ) । इन्दुमत्या दीपार्चिरुपमानम्। अजस्य तैलबिन्दुः। तत एव तस्या जीवितसमाप्तिस्तस्य जीवितशेषश्च सूच्यते ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
पु षा णोज्झि ते सा
नि न्तीतिप्य पा यत्
नु तैनि षे बिन्दु ना
दी पार्चिरु पैति मेदि नीम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.