८.३७
क्षणमात्रसखीं सुजातयोः स्तनयोस्तामत्रलोक्य विह्वला ।
निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥
सञ्जीविनीटीका (मल्लिनाथः) क्षणमिति॥ सुजातयोः सुजन्मनोः। सुन्दरयोरित्यर्थः। स्तनयोः क्षणमात्रं सखीं सखीमिव स्थिताम्। सुजातत्वसाधर्म्यात्स्रजः स्तनसखीत्वमिति भावः। तां स्रजमवलोक्येष्द्दृष्ट्वा विह्वला परवशा नरोत्तमप्रियेन्दुमती। तमसा राहुणा। तमस्तु राहुः स्वर्भानुः इत्यमरः (अमरकोशः १.३.२८ ) । हृतचन्द्रा कौमुदी चन्द्रिकेव। निमिमील मुमोह, ममारेत्यर्थः। निमीलो दीर्घनिद्रा च इति हलायुधः। कौमुद्या निमीलनं प्रतिसंहारः ॥
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.