८.३४
कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् ।
अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः ॥
सञ्जीविनीटीका (मल्लिनाथः) कुसुमैरिति॥ आपार्थिवैरभौमैः। दिव्यैरित्यर्थः। कुसुमैर्ग्रथितां रचिताम्। तस्य नारदस्यातोद्यस्य वाद्यस्य वीणायाः शिरस्यग्रे निवेशिताम्। चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् इत्यमरः (अमरकोशः १.७.६ ) । स्रजं मालां वेगवान्मारुतः। अधिवासे वासनायां स्पृहयेव। स्रजा स्वाङ्गं संस्कर्तुमित्यर्थः। संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् इत्यमरः (अमरकोशः १.७.६ ) । अहरत्किल। किलइत्यैतिह्ये ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
कुसु मैर्ग्रथि ता पार्थि वैः
स्र मा तोद्यशि रोनि वेशि ताम्
त्किस्य वे वा
धि वास्पृ ये मारु तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.