८.३२
स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः ।
नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः। नित्यमसिच्प्रजामेधयोः (अष्टाध्यायी ५.४.१२२ ) इत्यसिच्प्रत्ययः। न केवलं स्त्रैण इति भावः। शोभना प्रजा यस्यासा सुप्रजाः सुपुत्रवान्। पुत्रन्यस्तभार इति भावः। सोऽजः कदाचिद्देव्या महिष्येन्दुमत्या सह नगरोपवने। नन्दने नन्दनाख्येऽमरावत्युपकण्ठवने शचीसखः। शच्या सहेत्यर्थः। मरुतां देवानां पालयितेन्द्र इव। विजहार चिक्रीड॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
दाचि वेक्षिप्र जः
दे व्यावि हा सुप्र जाः
रो ने ची खो
रु तां पायि तेन्द ने
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.