८.३१
बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम् ।
वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना ॥
सञ्जीविनीटीका (मल्लिनाथः) बलमिति॥ तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजनं परोपकारकं नाभूत्। किंतु गुणवत्तापि गुणत्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा। विधेयांशत्वेन प्राधान्याद्गुणवत्ताया विशेषणं विस्वित्यत्र तूहनीयम्। तथा हि-बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय। न तु स्वार्थं परपीडनाय वा। बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय। न तृत्सेकाय बभूव तस्य धनं परोपयोगीति किं वक्तव्यम्। बलश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
मार्त यो शान्त ये
विदु षांत्कृ ये हुश्रु तम्
सुस्यवि भोर्न के लं
गु त्तापिप्र यो ना
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.