८.३०
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः ।
अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥
सञ्जीविनीटीका (मल्लिनाथः) ऋषीति॥ श्रुतयागप्रसवैरध्ययनयज्ञसंतानैः करणैः यथासंख्यमृषीणां देवगणानामिन्द्रादीनां स्वधाभुजां पितॄणामनृणत्वमृणविमुक्तत्वम्। उपेयिवान् प्राप्तवान्। एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा इति श्रुतेः। स पार्थिवोऽजः परिधेः परिवेषात्। परिवेषस्तु परिधिः इत्यमरः (अमरकोशः १.३.३६ ) । मुक्तो पार्थिवोऽजः परिधेः परिवेषात्। परिवेषस्तु परिधिः इत्यमरः (अमरकोशः १.३.३६ ) । मुक्तोनिर्गतः। कर्मकर्ता। उष्णदीधितिः सूर्य इव। बभौ दिदीपे। इत्युपमा ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
षि देस्व धाभु जां
श्रु याप्र वैः पार्थि वः
नृत्वमु पेयि वान्ब भौ
रि धे र्मुक्त वोष्ण दीधि तिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.