भामिनी कामिनी च
इति हलायुधः। अग्र्यपौरुषं महापराक्रममुत्कृष्टभोगशक्तिं च तमजं पतिमासाद्य प्राप्य। तत्र प्रथमा क्षितिः। बहूनि रत्नानि श्रेष्ठवस्तूनि सूत इति बहुरतन्सूरभूत्। रत्नं स्वजातिश्रेष्ठेऽपि
इत्यमरः (अमरकोशः ३.३.१३४ ) । अपरेन्दुमती वीरं सुतमजीजनज्जनयति स्म। जायतेर्णौ लुङि रूपम्। सहोक्त्या सादृश्यमुच्यते॥