८.२३
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापवर्गयोरुभयीं सिद्धिमुभाववापतुः ॥
सञ्जीविनीटीका (मल्लिनाथः) इतीति॥ इत्येवं प्रतिषिद्धः प्रसरः स्वार्थप्रवृत्तिर्येषां तेषु शत्रुषु चेन्द्रियेषुप च जाग्रतावप्रमत्तावुदयापवर्गयोरभ्युदयमोक्षयोः प्रसितावासक्तौ। तत्परे प्रसितासक्तौ इत्यमरः (अमरकोशः ३.१.९ ) । उभघावजरघू उभयीं द्विविधामभ्युदयमोक्षरूपाम्। उभादुदात्तो नित्यम् (अष्टाध्यायी ५.२.४४ ) इति तपप्प्रत्ययस्यायजादेशः। टिड्ढा- (अष्टाध्यायी ४.१.१५ ) इति ङीप्। सिद्धिं फलमवापतुः। उभावुभे सिद्धी यथासंख्यमवापतुरित्यर्थः॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
तित्रुषु चेन्द्रि येषु
प्रति षि द्धप्र रेषु जाग्र तौ
प्रसि तावु यार्ग यो
रु यीं सिद्धिमु भा वा तुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.