८.२४
अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः ।
तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ रघुः समदर्शनः सर्वभूतेषु समदृष्ठिः सन्नजव्यपेक्षयाऽजाकाङ्क्षानुरोधेन काश्चित्समाः कतिचिद्वर्षाणि। समा वर्षं समं तुल्यम् इति विश्वः। गमयित्वा नीत्वा योगसमाधिनैक्यानुसंधानेन। संयोगो योग इत्युक्तो जीवात्मपरमात्मनोःइति वसिष्ठः। अव्ययमविनाशिनं तमसः परमविद्यायाः परम्। मायातीतमित्यर्थः। पुरुषं परमात्मानम्। आपात् प्राप। सायुज्यं प्राप्त इत्यर्थः॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
काश्चिव्य पेक्ष या
यि त्वार्श नः माः
सः माव्य यं
पुरु षं यो माधि ना घुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.