८.२१
पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्षअय तत्फलम् ।
रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥
सञ्जीविनीटीका (मल्लिनाथः) पणबन्धेति॥ पणबन्धः संधिः इति कौटिल्यः। अजः पणबन्धमुखान् संध्यादीन्षङ्गुणान्। संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः। षङ्गुणाः इत्यमरः (अमरकोशः २.९.१२ ) । तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्य। उपायुङ्क्त। फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः। प्रोपाभ्यां युजेरयज्ञपात्रेषु (अष्टाध्यायी १.३.६४ ) इत्यात्मनेपदम्। समस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः निःस्पृह इत्यर्थः। लोष्टानि लेष्टवः पुंसि इत्यमरः (अमरकोशः २.९.१२ ) । रघुरपि गुणत्रयं सत्त्वादिकम्। गुणाः सत्त्वं रजस्तमः इत्यमरः (अमरकोशः २.९.१२ ) । प्रकृतौ साम्यावस्थायमेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाऽजयत् ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
न्धमु खान्गु णा जः
डु पा युङ्क्त मीक्षत्फ
लम्घुप्यद्गुत्र यं
प्रकृ ति स्थं लोष्ट काञ्च नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.