८.२०
अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् ।
इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥
सञ्जीविनीटीका (मल्लिनाथः) अकरोदिति॥ अचिरेश्वरोऽजः क्षितौ द्विषतामारम्भाः कर्माणि तेषां फलानि भस्मसादकरोत् कार्त्स्न्येन भस्मीकृतवान्। विभाषा साति कार्त्स्न्ये (अष्टाध्यायी ५.४.५२ ) इति सातिप्रत्ययः। इतरो रघुर्ज्ञानमयेन आत्मज्ञानप्रचुरेण वह्निना पावकेन करणेन स्वकर्मणां भवबीजभूतानां दहने भस्मीकरणे ववृते। स्वकर्माणि दग्धुं प्रघृत्त इत्यर्थः। ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जन इति गीतावचनात्
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
रोचि रेश्व रःक्षि तौ
द्वि दाम्भ लानिस्म सात्
रो नेस्वर्म णां
वृ ते ज्ञा येह्नि ना
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.