८.१९
अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥
सञ्जीविनीटीका (मल्लिनाथः) अनयदिति॥ एकोऽन्यतमः। अज इत्यर्थः। अनन्तरान्स्वभूम्यनन्तरान्नृपतीन्यातव्यपार्षिणिग्राहादीन् प्रभुशक्तिसंपदा कोशदण्डमहिम्ना वशं स्वायत्ततामनयत्। कोशो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता इति मिताक्षरायाम्। अपरो रघुः प्रणिधानयोग्यया समाध्यभ्यासेन। योगाभ्यासार्कयोषितोः इति विश्वः। शरीरगोचरान्देहाश्रयान्पञ्च मरुतः पाणादीन्वशमनयत्। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। शरीरस्थाः इत्यरमः ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
त्प्रभुक्ति सं दा
मे कोनृ तीन्त रान्
रःप्रणि धा योग्य या
रु तःञ्च री गो रान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.