८.१८
नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा ।
परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥
सञ्जीविनीटीका (मल्लिनाथः) नृपतिरिति॥ युवा नृपति रजः प्रकृतीः प्रजाः कार्यार्थिनीरवेक्षितुम्। दुष्टादुष्टपरिज्ञानार्थमित्यर्थः। व्यवहारासनं धर्मासनम्। आददे स्वीचकार। प्रवयाः स्थविरो नृपती रघुस्तु। प्रवयाः स्थविरो वृद्धः इत्यमरः (अमरकोशः २.६.४२ ) । धारणां चित्तस्यैकाग्रतां परिचेतुमभ्यसितुम्। उपांशु विजने। उपांशु विजने प्रोक्तम् इति हलायुधः। कुशैः पूतं विष्टरमासनमाददे। यमादिगुणसंयुक्ते मनसः स्थइतिरात्मनि। धारणा प्रोच्यते सद्भिर्योगशास्त्रविशारदैः ॥ इति वसिष्ठः ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
नृ तिःप्रकृ ती वेक्षि तुं
व्य हा रा मा देयु वा
रि चेतुमु पांशु धा णां
कु पू तंप्र यास्तु विष्ट रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.