७.७१
प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् ।
तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभून्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रथमेति॥ प्रथममजागमनात्प्रागेव परिगतो ज्ञातोऽर्थो विवाहविजयरूपो येन स प्रथमपरिगतार्थो रघुर्विजयिनं विजययुक्तं श्लाघ्यजायासमेतं संनिवृत्तं प्रत्यागतं तमजमभिनन्द्य। तस्मिन्नज उपहितकुटुम्बः सन्। सुतविन्यस्तपत्नीकः(प्राय.३।४५१) इति याज्ञवल्क्यस्मरणादिति भावः। शान्तिमार्गो मोक्षमार्ग उत्सुकोऽभूत्। तथा हि-कुलधुर्ये कुलधुरंधरे सति सूर्यवंश्या गृहाय गृहस्थाश्रमाय न भवन्ति ॥
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१०१११२१३१४१५
प्ररि ता र्थ स्तं घुः संनि वृ त्तं
वियिभि न्द्य श्लाघ्य जा या मे तम्
दुहिकु टु म्बः शान्ति मा र्गोत्सु को ऽभू
न्नहितिकु धु र्ये सूर्य वं श्यागृ हा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.