७.७०
इति शिरसि स वामं पादमाधाय राज्ञामुदवहदनवद्यां तामवद्यादपेतः ।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥
सञ्जीविनीटीका (मल्लिनाथः) इतीति॥ नोद्यते नोच्त इत्यवद्यं गर्ह्यम्। अवद्यपण्य- (अष्टाध्यायी ३.१.१०१ ) इत्यादिना निपातः। कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः इत्यमरः (अमरकोशः ३.१.५४ ) । तस्मादपेतः। निर्दोष इत्यर्थः। सोऽज इति राज्ञां शिरसि वामं पादमाधायानवद्यामदोषां तामिन्दुमतीमुदवहदुपानयत्। आत्मसाञ्चकारेत्यर्थः। अयमर्थः तमुद्वहन्तं पथि भोजकन्याम्(७।३५)इत्यत्र न श्लिष्टः। तस्याजस्य रथतुरगाणां रजोभी रूक्षाणि परुषाण्यलकाग्राणि यस्याः सा सेन्दुमत्येव मूर्ता मूर्तिमती समरविजयलक्ष्मीर्बभूव। एतल्लाभादन्यः को विजयलक्ष्मीलाभ इत्यर्थः॥
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१०१११२१३१४१५
तिशिसि वा मं पा मा धा रा ज्ञा
मु द्यां ता द्या पे तः
तु जो भि स्तस्य रू क्षा का ग्रा
वि क्ष्मीः सै मू र्ता भू
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.