७.५३
परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव ।
अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्सरः प्रार्थितयोर्विवादः ॥
सञ्जीविनीटीका (मल्लिनाथः) परस्परेणेति॥ परस्परेणान्योन्यं क्षतयोः क्षततन्वोः समकालमेककालं यथा तथोत्क्रान्तवाय्वोर्युगपदुद्गतप्राणयोः। एकैवाप्सराः प्रार्थिता याभ्यां तयोरेकाप्सरः प्रार्थितयोः। प्रार्थितैकाप्सरसोरित्यर्थः। वाहिताग्न्यादिषु (अष्टाध्यायी २.२.३७ ) इति परनिपातः। अथवा, -एकस्यामप्सरसि प्रार्थितं प्रार्थना ययोरिति विग्रहः। स्त्रियां बाहुष्वप्सरसः इति बहुत्वाभिधानं प्रायिकम्। कयोश्चित्प्रहर्त्रोर्योधयोरमर्त्यभावेऽपि देवत्वेऽपि विवादः कलह आसीत्। एकामिषाभिलाषो हि महद्वैरबीजमिति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्प रेक्ष योःप्र र्त्रो
रु त्क्रान्त वा य्वोः का मे
र्त्य भा वेऽपि योश्चि दा सी
दे काप्स रः प्रार्थि योर्वि वा दः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.