७.५४
व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् ।
पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥
सञ्जीविनीटीका (मल्लिनाथः) व्यूहाविति॥ तावुभौ व्यूहौ सेनासंघातौ। व्यूहस्तु बलविन्यासः इत्यमरः (अमरकोशः २.८.७९ ) । पश्चात्पुरश्च यौ मारुतौ तयोः पर्यायवृत्त्या क्रमवृत्त्या प्रवृद्धौ महान्तावर्णवोर्मी महार्णवोर्मी इव। इतरेतरस्मादन्योन्यस्मादव्यवस्थं व्यवस्थारहितमनियतं जयं भङ्गं पराजयं चापतुः प्राप्तवन्तौ ॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
व्यू हावु भौ तावि रे स्मा
द्भ ङ्गं यं चातुव्य स्थम्
श्चात्पु रो मारु योःप्र वृ द्धौ
र्या वृ त्त्ये हार्ण वो र्मी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.