७.५१
कश्चिद्विषत्खङ्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ॥
सञ्जीविनीटीका (मल्लिनाथः) कश्चिदिति॥ द्विषतः खङ्गेन हृतोत्तमाङ्गश्छिन्नशिराः कश्चिद्वीरः सद्यो विमानप्रभुतां विमानाधिपत्यम्। देवत्वमित्यर्थः। उपेत्य प्राप्य वामाङ्गसंसक्ता सव्योत्सङ्गसङ्गिनी सुराङ्गना यस्य स तथोक्तः सन्, समरे नृत्यत्स्वं निजं कबन्धं अशिरस्कं कलेवरं ददर्श। कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् इत्यमरः (अमरकोशः २.८.११८ )
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
श्चिद्वि त्खङ्गहृ तोत्त मा ङ्गः
द्योवि माप्रभु तामु पेत्य
वा माङ्ग संक्तसु राङ्ग नः स्वं
नृ त्यत्क न्धं रेर्श
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.