७.४८
तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः ।
उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्नाः करशीकरेण ॥
सञ्जीविनीटीका (मल्लिनाथः) तनुत्यजामिति॥ तनुत्यजाम्। तनुषु निःस्पृहाणामित्यर्थः। वर्मभृतां कवचिनां संबन्धिभिर्बृहत्सु दन्तेषु पतद्भिरत एव विकोशैः पिधानादुद्धृतैः। कोशोऽस्त्री कुङ्मले खङ्गपिधानेऽथौघदिव्ययोः इत्यमरः। असिभिः खङ्गैरुद्यन्तमुत्थितमग्निं विविग्ना भीता गजाः करशीकरेण शुण्डादण्डजलकणेन शमयां बभूवुः शान्तं चक्रुः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
नुत्य जांर्मभृ तांवि को शै
र्बृत्सु न्तेष्वसि भिः द्भिः
द्यन्त ग्निं यां भूवु
र्ग जावि वि ग्नाः शी रे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.