७.३७
पत्तिः पदातिं रथिनं रथेगशस्तुरंगसादी तुरगाधिरूढम् ।
यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥
सञ्जीविनीटीका (मल्लिनाथः) पत्तिरिति॥ पत्तिः पादचारो योद्धा पदातिं पादचारमभ्यपतत्। पदा पादाभ्यामततीति पदातिः । पादस्य पद्- (अष्टाध्यायी ६.३.५२ ) इत्यादिना पदादेशः। पदातिपत्तिपदगपादातिकपदाजयः इत्यमरः (अमरकोशः २.८.६६ ) । रथेशो रथिको रथिनं रथारोहमभ्यपतत्। तुरंगसाद्यश्वारोहस्तुरगाधिरूढमश्वारोहमभ्यपतत्। रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः इत्यमरः (अमरकोशः २.८.६६ ) । गजस्य यन्ता हस्त्यारोहो गजस्थं पुरुषमभ्यपतत्। इत्थमनेन प्रकारेण तुल्यप्रतिद्वन्द्व्येकजातीयप्रतिभटं युद्धं बभूव। अन्योन्यं द्वन्द्वं कलहोऽस्त्येषामिति प्रतिद्वन्द्विनो योधाः। द्वन्द्वं कलहयुग्मयोः इत्यमरः (अमरकोशः २.८.६६ )
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०१११२
त्तिः दा तिंथि नं थे
स्तु रं सा दीतु गाधि रू ढम्
न्ता स्याभ्यद्ग स्थं
तु ल्यप्र ति द्वन्द्वि भू यु द्धम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.