७.३५
तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः ।
बलिप्रदिष्टां श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ॥
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ दृप्त उद्वतः स राजन्यगणो राजसंघातः। भोजकन्यामुद्वहन्तं नयन्तं तमजम्। बलिना वैरोचनिना प्रदिष्टां दत्तां श्रियमाददानं स्वीकुवाणम्। त्रिविक्रमस्येमं त्रैविक्रमम्। पादमिन्द्रशत्रुः प्रह्लाद इव। पथिरुरोध। तथा च ब्राह्माण्डपुराणे-विरोचनविरोधेऽपि प्रह्लादः प्राक्तनं स्मरन्। विषअणोस्तु क्रममाणस्य पादाम्भोजं रुरोध ह ॥ इति ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
मुद्व न्तंथि भो न्यां
रु रो रान्य णः दृ प्तः
लिप्र दि ष्टांश्रि मा दा नं
त्रै विक्र मं पामि वेन्द्र त्रुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.