७.१५
रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथा हि बाला ।
गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥
सञ्जीविनीटीका (मल्लिनाथः) रतीति॥ रतिस्मरौ यौ नित्यसहचरावित्यभिप्रायः। नूनं तावेवेयं चायं चेमौ दंपती। अभूताम्। एतद्रूपेणोत्पन्नौ। कुतः? तथा हि-इयं बाला राज्ञां सहस्रेषु राजसहस्रमध्ये। सत्यपि व्यत्यासकरण इति भावः। आत्मप्रतिरूपं स्वतुल्यमेव। तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः इति दण्डी। गता प्राप्ता। तदपि कथं जातमत आह-हि यस्मान्मनो जन्मान्तरसंगतिज्ञं भवति। तदेवेदम् इति प्रत्यभिज्ञाभावेऽपि वासनाविशेषशादनुभूतार्थेषु मनः प्रवृत्तिरस्तीत्युक्तम्। जन्मान्तरसाहचर्यमेवात्र प्रवर्तकमिति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
तिस्म रौ नूमि मा भू तां
रा ज्ञां स्रेषु थाहि बा ला
ते मा त्मप्रति रू मे
नोहि न्मान्त सं ति ज्ञम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.