७.१३
स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुममंस्त भोज्या ।
पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम्? ॥
सञ्जीविनीटीका (मल्लिनाथः) स्थआन इति॥ भोज्येन्दुमती परोक्षैरदृष्टैर्भूपतिभिर्वृता ममैवेयम् इति प्रार्थितापि यं वरमेव साधुं हितममंस्त मेने। न तु परोक्षमेव कंचित्प्रार्थकं वव्रे। स्थाने युक्तमेतत्। युक्ते द्वे सांप्रतं स्थाने इत्यमरः। कुतः? अन्यथा स्वयंवराभवे। असाविन्दुमती। पद्ममस्या अस्तीति पद्मा लक्ष्मीः। अर्शआदिभ्योऽच् (अष्टाध्यायी ५.१.१२७ ) इत्यच्प्रत्ययः। नारायणमिव। आत्मतुल्यं स्वानुरूपं कान्तं पतिं कथं लभेत? न लभेतैव। सदसद्विवेकासौकर्यादिति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्था नेवृ ता भूति भिः रो क्षैः
स्व यं रं साधु मंस्त भो ज्या
द्मे ना रान्य था सौ
भे का न्तं मात्म तु ल्यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.