६.८६
प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् ।
उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रमासीत् ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रमुदितेति॥ एकत एकत्र प्रमुदितो हृष्टो वरस्य जामातुः पक्षो वर्गो यस्य तत्तथोक्तम्। अन्यतोऽन्यत्र वितानं शून्यम्। भग्नाशत्वादप्रहृष्टमित्यर्थः। तत्क्षितिपतिमण्डलम्। उषसि प्रफुल्लपद्मं कुमुदवनेन प्रतिपन्ननिर्द्रप्राप्तनिमीलनं सर इव सरस्तुल्यम्। आसीत्। पुष्पिताप्रावृत्तमेतत् ॥
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१०१११२१३
प्रमुदिक्ष मेस्त
त्क्षितितिण्डन्य तोवि ता नम्
सिप्र फुल्ल द्मं
कुमुप्रतिन्न निद्र मा सीत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.