६.८५
शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥
सञ्जीविनीटीका (मल्लिनाथः) शशिनमिति॥ तत्र स्वयंवरे समगुणयोस्तुल्यगुणयोरिन्दुमती-रघुनन्दनयोर्योगेन प्रीतिर्येषां ते समगुणयोगप्रीतयः पौराः पुरे भवा जनाः इयमजसंगतेन्दुमती मेघैर्मुक्तं शशिनं शरञ्चन्द्रमुपगता कौमुदी। अनुरूपं सदृशं जलनिधिमवतीर्णा प्रविष्टा जह्नुकन्या भागीरथी। तत्सदृशीत्यर्थः। इत्येवं नृपाणां श्रवणयोः कटु परुषमेकमविसंवादि वाक्यमेकवाक्यं विवव्रुः। मालिनीवृत्तम् ॥
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१०१११२१३१४१५
शिमु ते यं कौमु दी मे मु क्तं
निधिनु रू पंह्नु न्या ती र्णा
तिगु यो प्री स्तत्र पौ राः
श्रटुनृ पा णा मे वा क्यंवि व्रुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.