६.६०
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन ।
आभाति बाला4तपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥
सञ्जीविनीटीका (मल्लिनाथः) पाण्ड्य इति॥ अंसयोरर्पिता लम्बन्त इति लम्बा हारा यस्य सः। हरिचन्दनेन गोशीर्षाख्येन चन्दनेन। तैलपर्णकगोशीर्षे हरिचन्दनमस्त्रियाम् इत्यमरः (अमरकोशः २.३.५ ) । क्लृप्ताङ्गरागः सिद्धानुलेपनोऽयं पाण्डूनां जनपदानां राजा पाण्ड्यः। पाण्डोर्जनपदशब्दात्क्षत्रियाड्ड्यण्वक्तव्यः(वा.२६७१) इति ड्यण्प्रत्ययः। तस्य राजन्यपत्यवत् इति वचनात्। बालातपेन रक्ता अरुणाः सानवो यस्य स सनिर्झरोद्गारः प्रवाहस्यन्दनसहितः। वारिप्रवाहो निर्झरो झरः इत्यमरः (अमरकोशः २.३.५ ) । अद्रिराज इवाभाति ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
पा ण्ड्योऽय मं सार्पिम्ब हा रः
क्लृ प्ताङ्ग रा गोरिन्द ने
भाति बा लाक्त सा नुः
निर्झ रो द्गा वाद्रि रा जः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.