६.६
तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये ।
रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ॥
सञ्जीविनीटीका (मल्लिनाथः) तेषामिति॥ महार्हासनसंस्थितानां श्रेष्ठसिंहासनस्थानाम्। उदारनेपथ्यभृतामुज्ज्वलवेषधारिणां तेषां राज्ञां मध्ये। कल्पद्रुमाणां मध्ये पारिजात इव सुरद्रुमविशेष इव। पञ्चैते देवतरवो मन्दारः पारिजातकः। संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्॥ इत्यमरः। स रघुसूनुरेव धाम्ना तेजसा। भूम्ना इति पाठेऽतिशयेनेत्यर्थः। रराज। अत्र कल्पद्रुमशब्दः पञ्चान्यतमविशेषवचनः। उपकल्पयन्ति मनोरथानिति व्युत्पत्त्या सुरद्रुममात्रोपलक्षकतया प्रयुक्त इत्यनुसंधेयम्। कल्पा इति द्रुमाः कल्पद्रुमा इति विग्रहः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ते षां हा र्हा संस्थि ता ना
मु दा नेथ्यभृ तां ध्ये
रा धा म्नाघु सूनु रे
ल्पद्रु मा णामि पारि जा तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.