६.५
तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।
सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥
सञ्जीविनीटीका (मल्लिनाथः) तास्विति॥ तासु राजपरम्परासु श्रिया लक्ष्म्या कार्त्र्या पयोमुचां मेघानां पङ्क्तिषु विद्युतेव सहस्रधा विभक्तः। तरंगेषु तरणिरिव स्वयमेक एव प्रत्येकं संक्रामित इत्यर्थः। प्रभाविशेषस्योदयेनाविर्भावेन दुर्निरीक्ष्यो दुर्दर्शन आत्मा श्रियः स्वरूपं व्यरुचद्व्यद्योतिष्ट। द्युद्भ्यो लुङि (अष्टाध्यायी १.३.९१ ) इति परस्मैपदम्। द्युतादित्वादङ्प्रत्ययः। तस्मिन्समये प्रत्येकं संक्रांन्तलक्ष्मीकतया तेषां किमपि दुरासदं तेजः प्रादुरासीदित्यर्थः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ता सुश्रि या राम्प रासु
प्र भावि शे षो दुर्नि री क्ष्यः
स्र धा त्माव्यरुद्वि क्तः
योमु चांङ्क्तिषु विद्यु ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.