६.५७
अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥
सञ्जीविनीटीका (मल्लिनाथः) अनेनेति॥ अनेन राज्ञा सार्धं तालीवनैर्मर्मरेषु मर्मरेति ध्वनत्सु। अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्इत्यमरवचनाद्गुणपरस्यापि मर्मर शब्दस्य गुणिपरत्वं प्रयोगादवसेयम्। अम्बुराशेः समुद्रस्य तीरेषु द्वीपान्तरेभ्य आनीतानि लवङ्गपुष्पाणि देवकुसुमानि यैस्तैः। लवङ्गं देवकुसुमम् इत्यमरः (अमरकोशः २.६.१२६ ) । मरुद्भिर्वातैरपाकृताः प्रशमिताः स्वेदस्य लवा बिन्दवो यस्याः सा तथाभूता सती त्वं विहर क्रीड ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ने सा र्धंवि राम्बु रा शे
स्ती रेषु ता लीर्म रेषु
द्वी पान्त रा नीङ्ग पु ष्पै
पाकृ स्वे वा रु द्भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.