६.५४
असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च ।
यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥
सञ्जीविनीटीका (मल्लिनाथः) असाविति॥ महेन्द्राद्रेः समानसारस्तुल्यसत्त्वोऽसौ हेमाङ्गदो महेन्द्रस्य नाम कुलपर्वतस्य महेन्द्राद्रेः समानसारस्तुल्यसत्त्वोऽसौ हेमाङ्गदो महेन्द्रस्य नाम कुलपर्वतस्य महोदधेश्च पतिः स्वामी। महेन्द्रमहोदधी एवास्य गिरिजलदुर्गे इति भावः। यस्य यात्रासु क्षरतां मदस्राविणां सैन्यगजानां छलेन महेन्द्रो महेन्द्राद्रिः पुरोऽग्रे यातीव। अद्रिकल्पा अस्य गजा इत्यर्थः॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
सौ हे न्द्राद्रि मा सा रः
तिर्म हे न्द्रस्य हो धेश्च
स्यक्ष त्सैन्यच्छ ले
या त्रासु या तीपु रो हे न्द्रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.