६.५२
नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री ।
महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥
सञ्जीविनीटीका (मल्लिनाथः) नृपमिति॥ स्यादावर्तोऽम्भसां भ्रमः इत्यमरः (अमरकोशः १.१०.६ ) । आवर्तमनोज्ञा नाभिर्यस्याः सा। इदं च नदीसाम्यार्थमुक्तम्। अन्यवधूरन्यपत्नी भवित्री भाविनी सा कुमारी महीधरं तं नृपम्। सागरगामिनी सागरं गन्त्री स्रोतोवहा नदीमार्गवशादुपेतं प्राप्तं महीधरं पर्वतमिव। व्यत्यगादतीत्य गता ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
नृ पं मार्त नोज्ञ ना भिः
सा व्यत्य गान्य धूर्भ वि त्री
ही रं मार्ग शादु पे तं
स्रो तो हा सा गामि नी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.